(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.40. अध्यायः 040
Mahabharata - Udyoga Parva - Chapter Topics
विदुरेण धृतराष्ट्रं प्रति तत्तद्वर्णवर्मणां तैत्तैश्वश्यानुष्ठेयत्वकथनपूर्वकं युधिष्ठिरस्य राज्यं प्रदाय क्षात्रधर्मे नियोजनचोदनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text

विदुर उवाच। 5-40-0x(3496)(33286)
योऽभ्यर्चितः मद्भिरसञ्जमानः
करोत्यर्थं शक्तिमहापयित्वा।
क्षिप्रं यशस्तं समुपैति मन्त-
मलं प्रसन्ना हि सुखाय सन्तः ॥ 5-40-1(33287)
महान्तमप्यर्थमधर्मयुक्तं
यः मन्त्यजत्यनपाकृष्ट एव।
सुखं सुदुःखान्यवमुच्य शेते
जीर्णां त्वचं सर्प इवावमुच्य ॥ 5-40-2(33288)
अनृते च समुत्कर्पो राजगामि च पैशुनम् ।
गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥ 5-40-3(33289)
असूयैकपदं मृत्युरतिवादः श्रियो वधः।
अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रः ॥ 5-40-4(33290)
आलस्यं मदमोहौ च चापलं गोष्ठिरेव च।
स्तब्धता चाभिमानित्वं तथा त्यागित्वमेव च ॥ 5-40-5(33291)
एते वै सप्त दोषाः स्युः सदा विद्यार्थिनां मताः ।
सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखं।
सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा त्यजेत्सुखम् ॥ 5-40-6(33292)
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः।
नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥ 5-40-7(33293)
आशा धृतिं हन्ति समृद्धिमन्तकः
क्रोधः श्रियं हन्ति यशः कदर्यता ।
अपालनं हन्ति पशूंश्च राज-
न्नेकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम् ॥ 5-40-8(33294)
अजाश्च कांस्यं रजतं च नित्यं
मध्वाकर्षः शकुनिः श्रोत्रियश्च ।
वृद्धो ज्ञातिरवसन्नः कुलीन
एतानि ते सन्तु गृहे सदैव ॥ 5-40-9(33295)
अजोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी ।
विषमौदुम्बरं शङ्खः स्वर्णनाभोऽथ रोचना ॥ 5-40-10(33296)
गृहे स्थापयितव्यानि धन्यानि मनुरब्रवीत्।
देवब्राह्मणपूजार्थमतिथीनां च भारत ॥ 5-40-11(33297)
इदं च त्वां सर्वपरं ब्रवीमि
पुण्यं पदं तात महाविशिष्टम्।
न जातु कामान्न भयान्न लोभा-
द्धर्मं जह्याज्जीविस्यापि हेतोः ॥ 5-40-12(33298)
नित्यो धर्मः सुखदुःखे त्वनित्ये
जीवो नित्यो धातुरस्य त्वनित्यः।
त्यक्त्वाऽनित्यं प्रतितिष्ठस्व नित्ये
संतुष्य सन्तोषपरा हि सन्तः ॥ 5-40-13(33299)
महाबलान्पश्य महानुभावान्
प्रशास्य भूमिं धनधान्यपूर्णाम्।
राज्यानि हित्वा विपुलांश्च भोगान्।
गतान्नरेन्द्रान्वशमन्तकस्य ॥ 5-40-14(33300)
मृतं पुत्रं दुःखपुष्टं मनुष्या
उत्क्षिप्य राजन्स्वगृहान्निर्हरन्ति।
तं मुक्तकेशाः करुणं रुदन्ति
चितामध्ये काष्ठमिव क्षिपन्ति॥ 5-40-15(33301)
अन्यो धनं प्रेतगतस्य भुङ्क्ते
वयांसि चाग्निश्च शरीरधातून्।
द्वाभ्यामयं सह गच्छत्यमुत्र
पुण्येन पापेन च वेष्ट्यमानः ॥ 5-40-16(33302)
उसृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः।
अपुष्पानफलान्वृक्षान्यथा तात पतत्रिणः ॥ 5-40-17(33303)
अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयं कृतम्।
तस्मात्तु पुरुषो यत्नाद्धर्मं सञ्चिनुयाच्छनैः ॥ 5-40-18(33304)
अस्माल्लोकादूर्ध्वममुष्य चाधो
महत्तमस्तिष्ठति ह्यन्धकारम्।
तद्वै महामोहनमिन्द्रियाणां
बुद्ध्यस्व मा त्वां प्रलभेत राजन् ॥ 5-40-19(33305)
इदं वचः शक्ष्यसि चेद्यथाव-
न्निशम्य सर्वं प्रतिपत्तुमेव।
यशः परं प्राप्स्यसि जीवलोके
भयं नचामुत्र नचेह तेऽस्ति ॥ 5-40-20(33306)
आत्मा नदी भारत पुण्यतीर्था
सत्योदया धृतिकूला दयोर्मिः।
तस्यां स्नातः पूयते पुण्यकर्मा
पुण्यो ह्यात्मा नित्यमलोभ एव ॥ 5-40-21(33307)
कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम्।
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर ॥ 5-40-22(33308)
प्रज्ञावृद्धं धर्मवृद्धं स्वबन्धुं
विद्यावृद्धं वयसा चापि वृद्धम् ।
कार्याकार्ये पूजयित्वा प्रसाद्य
यः संपृच्छेन्न स मुह्येत्कदाचित् ॥ 5-40-23(33309)
धृत्या शिश्रोदरं रक्षेत्पाणिपादं च चक्षुषा ।
चक्षुःश्रोत्रे च मनसा मनो वाचं च कर्मणा ॥ 5-40-24(33310)
नित्योदकी नित्ययज्ञोपवीती
नित्यस्वाध्यायी पतितान्नवर्जी ।
सत्यं ब्रुवन्गुरवे कर्म कुर्व-
न्न ब्राह्मणश्र्यवते ब्रह्मलोकात् ॥ 5-40-25(33311)
अधीत्य वेदान्परिसंस्तीर्य चाग्नी-
निष्ट्वा यज्ञैः पालयित्वा प्रजाश्च।
गोब्रह्मणार्थं शस्त्रपूतान्तरात्मा
हतः सङ्ग्रामे क्षत्रियः स्वर्गमेति ॥ 5-40-26(33312)
वैश्योऽधीत्य ब्राह्मणान्क्षत्रियांश्च
धनैः काले संविभज्याश्रितांश्च।
त्रेतापूतं धूममाघ्राय पुण्यं
प्रेत्य स्वर्गे दिव्यसुखानि भुङ्क्ते ॥ 5-40-27(33313)
ब्रह्म क्षत्रं वैश्यवर्णं च शूद्रः
क्रमेणैतान्न्यायतः पूजयानः।
तुष्टेष्वेतेष्वव्यथो दग्धपाप-
स्त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते ॥ 5-40-28(33314)
चातुर्वर्ण्यस्यैष धर्मस्तवोक्तो
हेतुं चानुब्रुवतो मे निबोध।
क्षात्राद्धर्माद्धीयते पाण्डुपुत्र-
स्तं त्वं राजन्राजधर्मे नियुङ्क्ष ॥ 5-40-29(33315)
धृतराष्ट्र उवाच। 5-40-30x(3497)
एवमेतद्यथा त्वं मामनुशासनि नित्यदा।
ममापि च मतिः सौम्य भवत्येवं यथात्थ माम् ॥ 5-40-30(33316)
सा तु बुद्धिः कृताप्येवं पाण्डवान्प्रति मे सदा।
दुर्योधनं समासाद्य पुनर्विपरिवर्तते ॥ 5-40-31(33317)
न दिष्टमभ्यतिक्रान्तुं शक्यं भूतेन केनचित्।
दिष्टमेव ध्रुवं मन्ये पौरुषं तु निरर्थकम् ॥ ॥ 5-40-32(33318)

इति श्रीमन्महाभारते उद्योगपर्वणि प्रजागरपर्वणि चत्वारिंशोऽध्यायः ॥ ॥ समाप्तमिदं प्रजागरपर्व ॥ -------

Mahabharata - Udyoga Parva - Chapter Footnotes
5-40-1 प्रमन्नः सन्तः साधवः सुखाय अलं सुखं दातुं पर्याप्ताः ॥ 5-40-4 एकपदं सर्वात्मना ॥ 5-40-5 मदमोहौ एकीकृत्य सप्त ॥ 5-40-9 आकर्षः विषादीनाम् ॥ 5-40-10 अजेन सहितः उक्षा अजोक्षा। औदुम्बरं ताम्रमयं पात्रजातम्। विषं लोहमिति सर्वज्ञः। स्वर्णनाभः शालग्रामः । दक्षिणावर्तः शङ्खः । 5-40-11 धन्यानि मङ्गलावहानि ॥ 5-40-12 महाविशिष्टं महेन उत्सवेन अविशिष्टं समानं माङ्गलिकमित्यर्थः ॥ 5-40-19 अस्माल्लोकादूर्ध्वं स्वर्गे। अमुष्य अमुष्मात् स्वर्गात्। प्रलभेत स्पृशेत् ॥ 5-40-20 प्रतिपत्तुं ज्ञातुं शक्ष्यसि चेदिति संबन्धः ॥ 5-40-21 पुण्यमपि किं नित्य मलोभ एव। वैराग्यात्र परं पुण्यमित्यर्थः ॥ 5-40-24 मनो वाचं च विद्ययेति ङ पाठः ॥ 5-40-25 नित्योदकी यथाकालं स्नानाचमनपरः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.